Ganesh Stava (गणपतिस्तवः) in Hindi & Sanskrit

Ganesh Stava

Find Ganesh Stava (गणपतिस्तवः) in Hindi & Sanskrit. Read Ganpati Stava everyday in front of Lord ganesha to make him happy and get prosperity & wealth.

Ganesh Stava

श्रीगणेशाय नमः ॥

ऋषिरुवाच ॥
अजं निर्विकल्पं निराहारमेकं निरानन्दमानंदमद्वैतपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेम् ॥१॥
गुणातीतमानं चिदानंदरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेश भजेम् ॥२॥
जगत्कारणं कारणज्ञानरूपं सुरादिं सुखादिं गुणेशं गणेशम् ।
जगद्व्यापिनं विश्ववंद्यं सुरेशं परब्रह्मरूपं गणेशं भजेम् ॥३॥
रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं ह्रदाऽचिंत्यरूपम् ।
जगत्कारणं सर्वविद्यानिधानं परब्रह्मरूपं गणेशं नताः स्मः ॥४॥
सदा सत्ययोग्यं मुदा क्रीडमानं सुरारी न्हरंतं जगत्पालयंतम् ।
अनेकावतारं निजज्ञानहारं सदा विश्वरूपं गणेशं नमामः ॥५॥
तपोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् ।
अनेकागमैः स्वं जनं बोधयंतं सदा सर्वरूपं गणेशं नमामः ॥६॥
नमः स्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मसारम् ।
मुनिज्ञानकारं विदूरे विकारं सदा ब्रह्मरूपं गणेशं नमामः ॥७॥
निजैरोषधीस्तर्पयंतं कराद्यैः सुरौघान्कलाभिः सुधास्त्राविणीभिः ।
दिनेशांशुसंतापहारं द्विजेशं शशांकस्वरूप गणेशं नमामः ॥८॥
अनेकक्रियानेकशक्तिस्वरूपं सदा शक्तिरूपं गणेशं नमामः ।
प्रधानस्वरूपं महत्तत्वरूपं धराचारिरूपं दिगीशादिरूपम्  ॥९॥
असत्सत्स्वरूपं जगद्धेतुरूपं सदा विश्वरूपं गणेशं नताः स्मः ॥१०॥
त्वदीये मनः स्थापयेदंघ्रियुग्मे स नो विघ्नसंघातपीडां लभेत ।
लसत्सूर्यबिम्बे विशाले स्थितोऽयं जनो ध्वांतपीडा कथं वा लभेत ॥११॥
वयं भ्रामिताः सर्थथाऽज्ञानयोगादलब्धास्तवांघ्रि बहून्वर्षपूगान् ।
इदानीमवाप्तास्तवैव प्रसादात्प्रपन्नान्सदा पाहि विश्वम्भराद्य ॥१२॥
एवं स्तुतो गणेशस्तु संतुष्टोऽभून्महामुने ।
कृपया परयोपेतोऽभिधातुमुपचक्रमे ॥१३॥
॥इति श्रीमद्गर्गमहर्षिप्रणीतो गणपतिस्तवः सम्पूर्णः ॥