Shri Strotram from Agni Purana in Hindi & Sanskrit

Shri Strotram from Agni Purana

Shri Strotram from Agni Purana in Hindi & Sanskrit. Read this Shri Strotram by lord indra to make maa lakshmi happy and get prosperity and wealth.

Shri Strotram from Agni Purana

श्रीस्तोत्रं 

पुष्कर उवाच ।

राज्यलक्ष्मीस्थिरत्वाय यथेन्द्रेण पुरा श्रियः ।

स्तुतिः कृता तथा राजा जयार्थं स्तुतिमाचरेत् ॥१॥

इन्द्र उवाच ।

नमस्ये सर्वलोकानां जननीमब्धिसम्भवां ।

श्रियमुन्निन्द्रपद्माक्षीं विष्णुवक्षःस्थलस्थितां ॥२॥

त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनि ।

सन्धया रात्रिः प्रभा भूतिर्म्मेधा श्रद्धा सरस्वती ॥३॥

यज्ञविद्या महाविद्या गुह्यविद्या च शोभने ।

आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥४॥

आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्त्वमेव च ।

सौम्या सौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितं ॥५॥

का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः ।

अध्यास्ते देव देवस्य योगिचिन्त्यं गदाभृतः ॥६॥

त्वया देवि परित्यक्तं सकलं भुवनत्रयं ।

विनष्टप्रायमभवत् त्वयेदानीं समेधितं ॥७॥

दाराः पुत्रास्तथागारं सुहृद्धान्यधनादिकं ।

भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान् नृणां ॥८॥

शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखं ।

देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्ल्लभं ॥९॥

त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता ।

त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरं ॥१०॥

मानं कोषं तथा कोष्ठं मा गृहं मा परिच्छदं ।

मा शरीरं कलत्रञ्च त्यजेथाः सर्व्वपावनि ॥११॥

मा पुत्रान्मासुहृद्वर्गान्मा पशून्मा विभूषणं ।

त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलालये  ॥१२॥

सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः ।

त्यजन्ते ते नरा सद्यः सन्त्यक्ता ये त्वयामले ॥१३॥

त्वयावलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः ।

कुलैश्वर्य्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥१४॥

स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् ।

स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ॥१५॥

सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः ।

पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥१६॥

न ते वर्णयितुं शक्ता गुणान् जिह्वापि वेधसः ।

प्रसीद देवि पद्माक्षि नास्मांस्त्याक्षीः कदाचन ॥१७॥

॥इत्यग्नेये महापुराणे श्रीस्तोत्रं नाम षट्त्रिंशदधिकद्विशततमो ऽध्यायः॥