Lord Subramanya Ashtakam in Sanskrit

Lord Subramanya Ashtakam

Subramanya Ashtakam is related to Lord Murugan or Kārttikeya to make him happy and get prosperity & wealth by his grace.

Lord Subramanya Ashtakam in Sanskrit

Subramanya Ashtakam

हे स्वामिनाथ करुणाकर दीनबन्धो श्रीपार्वतीशमुखपङ्कज पद्मबन्धो ।
श्रीशादिदेवगणपूजितपादपद्म वल्लीश नाथ मम देहि करावलम्बम् ॥१॥

देवाधिदेवसुत देवगणाधिनाथ देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद ।
देवर्षिनारदसुगीतकीर्ते वल्लीश नाथ मम देहि करावलम्बम् ॥२॥

नित्यान्नदाननिरताखिलरोगहारिन् भाग्यप्रदानपरिपूरितभक्तकाम ।
श्रुत्यागमप्रणववाच्यनिजस्वरूप वल्लीश नाथ मम देहि करावलम्बम् ॥३॥

क्रौञ्चासुरेन्द्रपरिखण्डनशक्तिशूलचापादिशस्त्रपरिमण्डितदिव्यपाणे ।
श्रीकुण्डलीशधृततुण्डशिखीन्द्रवाह वल्लीश नाथ मम देहि करावलम्बम् ॥४॥

देवादिदेवरथमण्डलमध्यमेत्य देवेन्द्रपीठनगरं दृढचापहस्त ।
शूरं निहत्य सुरकोटिभिरीड्यमान वल्लीश नाथ मम देहि करावलम्बम् ॥५॥

हीरादिरत्नवलयुक्तकिरीटहार केयूरकुण्डललसत्कवचाभिराम ।
हे वीर तारकजयामरबृन्दवन्द्य वल्लीश नाथ मम देहि करावलम्बम् ॥६॥

पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैः पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।
पट्टाभिषिक्त हरियुक्त परासनाथ वल्लीश नाथ मम देहि करावलम्बम् ॥७॥

श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या कामादिरोगकलुषीकृतदुष्टचित्तम् ।
सिक्त्वा तु मामव कलाधरकान्तिकान्त्या वल्लीश नाथ मम देहि करावलम्बम् ॥८॥

सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजोत्तमाः
ते सर्वमुक्तिमायान्ति सुब्रह्मण्यप्रसादतः ॥९॥

सुब्रह्मण्याष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
कोटिजन्मकृतं पापं तत्क्षणात्तस्य नश्यति ॥१०॥