Devi Ashtakam in Hindi & Sanskrit

Devi Ashtakam

Find Devi Ashtakam lyrics in Sanskrit & Hindi. Read this Devi Ashtakam in front of Maa durga or shakti to admire her and get prosperity, wealth and her blessings.

देव्यष्टकम्

महादेवीं महाशक्तिं भवानीं भववल्लभाम्।
भवार्तिभञ्जनकरीं वन्दे त्वां लोकमातरम् ॥१॥

भक्तिप्रियां भक्तिगम्यां भक्तानां कीर्तिवधिकाम् ।
भवप्रियां सतीं देवीं वन्दे त्वां भक्तवत्सलाम् ॥२॥

अन्नपूर्णा सदापूर्णा पार्वतीं पर्वपूजिताम् ।
महेश्वरीं वृषारुढां वन्दे त्वां परमेश्वरीम् ॥३॥

कालरात्रिं महारात्रिं मोहरात्रिं जनेश्वरीम् ।
शिवकान्तां शम्भुशक्तिं वन्दे त्वां जननीमुमाम् ॥४॥

जगत्कत्रीं जगद्धात्रीं जगत्संहारकारिणीम् ।
मुनिभि: संस्तुतां भद्रां वन्दे त्वां मोक्षदायिनीम् ॥५॥

देवदु:खहरामम्बां सदा देवसहायकाम् ।
मुनिदेवै: सदा सेव्यां वन्दे त्वां देवपूजिताम् ॥६॥

त्रिनेत्रां शंकरीं गौरीं भगमोक्षप्रदां शिवाम् ।
महामायां जगद्वजां वन्दे त्वां जगदीश्वरीम् ॥७॥

शरणागतजीवानां सर्वदु:खविनाशिनीम् ।
सुखसम्पत्करीं नित्यां वन्दे त्वां प्रकृतिं पराम् ॥८॥

देव्यष्टकमिदं पुण्यं योगानन्देन निर्मितम् ।
य: पठेद्भक्तिभावेन लभते स परं सुखम् ॥९॥

Devi Ashtakam in Sanskrit & Hindi