Lalitha Hrudaya Stotram in sanskrit

Lalitha Hrudaya Stotram

Lalitha Hrudaya Stotram in sanskrit. Recite Lalitha Hrudaya Stotra everyday to get happiness, prosperity and wealth by the grace of goddess lalitha devi.

Lalitha Hrudaya Stotram in sanskrit

Lalitha Hrudaya Stotram
॥ श्रीललिताहृदयस्तोत्रम् ॥

श्रीललितांबिकायै नमः ।

देव्युवाच ।
देवदेव महादेव सच्चिदानन्दविग्रहा ।
सुन्दर्याहृदयं स्तोत्रं परं कौतूहलं विभो ॥ १॥

ईश्वरौवाच ।

साधु साधुत्वया प्राज्ञे लोकानुग्रहकारकं ।
रहस्यमपिवक्ष्यामि सावधानमनाःशृणु ॥ २॥

श्रीविद्यां जगतां धात्रीं सर्ग्गस्थितिलयेश्वरीं ।
नमामिललितां नित्यां भक्तानामिष्टदायिनीं ॥ ३॥

बिन्दुत्रिकोणसम्युक्तं वसुकोणसमन्वितं ।
दशकोणद्वयोपेतं चतुर्द्दश समन्वितं ॥ ४॥

दलाष्टकेसरोपेतं दलषोडशकान्वितं ।
वृत्तत्रययान्वितंभूमिसदनत्रयभूषितं ॥ ५॥

नमामि ललिताचक्रं भक्तानामिष्टदायकं ।
अमृतांभोनिधिंतत्र रत्नद्वीपं नमाम्यहं ॥ ६॥

नानावृक्षमहोद्यानं वन्देहं कल्पवाटिकां ।
सन्तानवाटिकांवन्दे हरिचन्दनवाटिकां ॥ ७॥

मन्दारवाटिकां पारिजातवाटीं मुदा भजे ।
नमामितव देवेशि कदंबवनवाटिकां ॥ ८॥

पुष्यरागमहारत्नप्राकारं प्रणमाम्यहं ।
पत्मरागादिमणिभिःप्राकारं सर्वदा भजे ॥ ९॥

गोमेदरत्नप्राकारं वज्रप्राकारमाश्रये ।
वैडूर्यरत्नप्राकारंप्रणमामि कुलेश्वरी ॥ १०॥

इन्द्रनीलाख्यरत्नानां प्राकारं प्रणमाम्यहं ।
मुक्ताफलमहारत्नप्राकारंप्रणमाम्यहं ॥ ११॥

मरताख्यमहारत्नप्राकाराय नमोनमः ।
विद्रुमाख्यमहारत्नप्राकारंप्रणमाम्यहं ॥ १२॥

माणिक्यमण्डपं रत्नसहस्रस्तंभमण्डपं ।
ललिते!तवदेवेशि भजाम्यमृतवापिकां ॥ १३॥

आनन्दवापिकां वन्देविमर्शवापिकां भजे ।
भजेबालातपोल्गारं चन्द्रिकोगारिकां भजे ॥ १४॥

महाशृंगारपरिखां महापत्माटवीं भजे ।
चिन्तामणिमहारत्नगृहराजं नमाम्यहं ॥ १५॥

पूर्वांनायमयं पूर्व्वद्वारं देवि नमाम्यहं ।
दक्षिणांनायरूपंतेदक्षिणद्वारमाश्रये ॥ १६॥

नमामि पश्चिमद्वारं पश्चिमाम्नाय रूपकं ।
वन्देहमुत्तरद्वारमुत्तराम्नायरूपकं ॥ १७॥

ऊर्द्ध्वाम्नायमयं वन्दे ह्यूर्द्धद्वारं कुलेश्वरि ।
ललितेतव देवेशि महासिंहासनं भजे ॥ १८॥

ब्रह्मात्मकं मञ्चपादमेकं तव नमाम्यहं ।
एकंविष्णुमयं मञ्चपादमन्यं नमाम्यहं ॥ १९॥

एकं रुद्रमयं मञ्चपादमन्यं नमाम्यहं ।
मञ्चपादंममाम्येकं तव देवीश्वरात्मकं ॥ २०॥

मञ्चैकफलकं वन्दे सदाशिवमयं शुभं ।
नमामितेहंसतूलतल्पकं परमेश्वरी! ॥ २१॥

नमामिते हंसतूलमहोपाधानमुत्तमं ।
कौस्तुभास्तरणंवन्दे तव नित्यं कुलेश्वरी ॥ २२॥

महावितानिकां वन्दे महायविनिकां भजे ।
एवंपूजागृहं ध्यात्वा श्रीचक्रे श्रीशिवां भजे ॥ २३॥

स्वदक्षिणे स्थापयामि भागे पुष्पाक्षतादिकान् ।
अमितांस्तेमहादेवि दीपान् सन्दर्शयाम्यहं ॥ २४॥

मूलेन त्रिपुराचक्रं तव सम्पूज्ययाम्यहं ।
त्रिभिःखण्डैस्तवख्यातैः पूजयामि महेश्वरि! ॥ २५॥

वाय्वग्नि जलसम्युक्तं प्राणायामैरहं शिवै ।
शोषाणांदाहनं चैव करोमि प्लावनं तथा ॥ २६॥

त्रिवारं मूलमन्त्रेण प्राणायामं करोम्यहं ।
पाषण्डकारिणोभूता भूमौये चान्तरिक्षके ॥ २७॥

करोम्यनेन मन्त्रेण तालत्रयमहं शिवे ।
नारायणोहंब्रह्माहं भैरवोहं शिवोस्म्यहं ॥ २८॥

देवोहं परमानन्दोस्म्यहं त्रिपुरसुन्दरि ।
ध्यात्वावै वज्रकवचं न्यासं तव करोम्यहं ॥ २९॥

कुमारीबीजसम्युक्तं महात्रिपुरसुन्दरि! ।
मांरक्षरक्षेति हृदि करोम्यज्ञलिमीश्वरि! ॥ ३०॥

महादेव्यासनायेति प्रकरोम्यासनं शिवे ।
चक्रासनंनमस्यामि सर्वमन्त्रासनं शिवे ॥ ३१॥

साद्ध्यसिद्धासनं मन्त्रैरेभिर्युक्तं महेश्वरि ।
करोम्यस्मिन्चक्रमन्त्रैर्देवतासनमुत्तमं ॥ ३२॥

करोम्यथ षडंगाख्यं मातृकां च कलां न्यसे ।
श्रीकण्टंकेशवं चैव प्रपञ्चं योगमातृकां ॥ ३३॥

तत्वन्यासं ततः कूर्व्वे चतुष्पीटं यथाचरे ।
लघुषोढांततः कूर्व्वे शक्तिन्यासं महोत्तमं ॥ ३४॥

पीटन्यासं ततः कुर्वे देवतावाहनं प्रिये ।
कुंकुमन्यासकंचैव चक्रन्यासमथाचरे ॥ ३५॥

चक्रन्यासं ततः कुर्व्वे न्यासं कामकलाद्वयं ।
षोडशार्ण्णमहामन्त्रैरंगन्यासंकरोम्यहं ॥ ३६॥

महाषोढां ततः कुर्व्वे शांभवं च महाप्रिये ।
ततोमूलंप्रजप्त्वाथ पादुकाञ्च ततः परं ॥ ३७॥

गुरवे सम्यगर्च्याथ देवतां हृदिसंभजे ।
करोमिमण्डलं वृत्तं चतुरश्रं शिवप्रिये ॥ ३८॥

पुष्पैरभ्यर्च्च्यसाधारं शंखं सम्पूजयामहं ।
अर्च्चयामिषडंगेन जलमापूरयाम्यहं ॥ ३९॥

ददामि चादिमं बिन्दुं कुर्वे मूलाभिमन्त्रितं ।
तजजलेनजगन्मातस्त्रिकोणं वृत्तसम्युतं ॥ ४०॥

षल्कोणं चतुरश्रञ्च मण्डलं प्रणमाम्यहं ।
विद्ययापूजयामीह त्रिखण्डेन तु पूजनं ॥ ४१॥

बीजेनवृत्तषल्कोणं पूजयामि तवप्रिये ।
तस्मिन्देवीकलात्मानां मणिमण्डलमाश्रये ॥ ४२॥

धूम्रार्च्चिषं नमस्यामि ऊष्मां च ज्वलनीं तथा ।
ज्वालिनींच नमस्यामि वन्देहं विस्पुलिंगिनीं ॥ ४३॥

सुश्रियं च सुरूपाञ्चकंपिलां प्रणमाम्यहं ।
नौमिहव्यवहां नित्यां भजे कव्यवहां कलां ॥ ४४॥

सूर्याग्निमण्डलां तत्र सकलाद्वादशात्मकं ।
अर्घ्यपाद्यमहंतत्र तपिनीं तापिनीं भजे ॥ ४५॥

धूम्रां मरीचीं वन्देहं ज्वालिनीं मरुहं भजे ।
सुषुम्नांभोगदां वन्दे भजे विश्वां च बोधिनीं ॥ ४६॥

धारिणीं च क्षमां वन्दे सौरीरेताः कलाभजे ।
आश्रयेमण्मलं चान्द्रं तल्कलाषोडशात्मकं ॥ ४७॥

अमृतां मानदां वन्दे पूषां तुष्टीं भजाम्यहं ।
पुष्टिंभजे महादेवि भजेऽहं च रतिं धृतिं ॥ ४८॥

रशनिं चन्द्रिकां वन्दे कान्तीं जोत्सना श्रियं भजे ।
नेऔमिप्रीतिञ्चागतदाञ्चपूर्ण्णिमाममृतांभजे ॥ ४९॥

त्रिकोणलेखनं कुर्व्वे आकारादिसुरेखकं ।
हलक्षवर्ण्णसम्युक्तंस्पीतं तं हंसभास्करं ॥ ५०॥

वाक्कामशक्ति संयुक्तं हंसमाराधयाम्यहं ।
वृत्ताद्बहिःषडश्रस्यलेखनं प्रकरोम्यहं ॥ ५१॥

पुरतोग्न्यादिषल्ख़ोणं कखगेनार्च्चयाम्यहं ।
श्रीविद्ययासप्तवारं करोम्यत्राभि मन्त्रितं ॥ ५२॥

समर्प्पयामि देवेशि तस्मात् गन्धाक्षतादिकं ।
ध्यायामिपूजाद्रव्येषु तत् सर्वं विद्ययायुतं ॥ ५३॥

चतुर्न्नवतिसन्मन्त्रान् स्पृष्ट्वा तत् प्रजपाम्यहं ।
वह्नेर्द्दशकलाःसूर्यकलाद्वादशकं भजे ॥ ५४॥

आश्रये शोडषकलास्तत्र चन्द्रमसस्तदा ।
सृष्टिम्वृद्धिम् स्मृतिम् वन्दे मेधाम् कान्तीम् तथैव च ॥ ५५॥

लक्ष्मीम् द्युथिम् स्थिताम् वन्दे स्थितिम् सिद्धिम् भजाम्यहम् ।
एताब्रह्मकलावन्दे जरान्थाम् पालिनीम् भजे ॥ ५६॥

शान्तिं नमामीश्वरीं च रतीं वन्दे च कारिकां ।
वरदांह्लादिनीं वन्दे प्रीतिं दीर्घां भजाभम्यहं ॥ ५७॥

एता विष्णुअकलावन्दे तीक्षणां रौद्रिं भयां भजे ।
निद्रांतन्द्रीं क्षुधां वन्दे नमामि क्रोधिनीं क्रियां ॥ ५८॥

उल्कारीं मृत्युरूपां च एता रुद्रकला भजे ।
नीलांपीतां भजे श्वेतां वन्देहमरुणां कलां ॥ ५९॥

अनन्तख्यां कलाञ्चेति ईश्वरस्य कलाभजे ।
निवृत्तिञ्चप्रतिष्ठाञ्चविद्यांशान्तिं भजाम्यहं ॥ ६०॥

रोधिकां दीपिकां वन्दे रेचिकां मोचिकां भजे ।
परांसूक्षामृतां सूक्षां प्रणामि कुलेश्वरि! ॥ ६१॥

ज्ञानाख्याञ्चनमस्यामि नौमिज्ञानामृतां कलां ।
आप्यायिनींव्यापिनीं च मोदिनीं प्रणमाम्यहं ॥ ६२॥

कलाः सदाशिवस्यैताः षोडश प्रणमाम्यहं ।
विष्णुयोनिंनमस्यामि मूलविद्यां नमाम्यहं ॥ ६३॥

त्रैयंबकम् नमस्यामि तद्विष्णुम् प्रणमाम्यहम् ।
विष्णुयोनिम्नमस्यामि मूलविद्याम् नमाम्यहम् ॥ ६४॥

अमृतं मन्त्रितं वन्दे चतुर्न्नवतिभिस्तथा ।
अखण्डैकरसानन्दकरेपरसुधात्मनि ॥ ६५॥

स्वच्छन्दस्पपुरणं मन्त्रं नीधेहि कुलरूपिणि ।
अकुलस्थामृताकारेसिद्धिज्ञानकरेपरे ॥ ६६॥

अमृतं निधेह्यस्मिन् वस्तुनिक्लिन्नरूपिणि ।
तद्रूपाणेकरस्यत्वंकृत्वाह्येतत् स्वरूपिणि ॥ ६७॥

भूत्वा परामृताकारमयि चित् स्पुरणं कुरु ।
एभिर्म्मनूत्तमैर्वन्देमन्त्रितं परमामृतं ॥ ६८॥

जोतिम्मयमिदं वन्दे परमर्घ्यञ्च सुन्दरि ।
तद्विन्दुभिर्मेशिरसि गुरुं सन्तर्प्पयाम्यहं ॥ ६९॥

ब्रह्मास्मिन् तद्विन्दुं कुण्डलिन्यां जुहोम्यहं ।
हृच्चक्रस्तां-महादेवींमहात्रिपुरसुन्दरीं ॥ ७०॥

निरस्तमोहतिमिरां साक्षात् संवित् स्वरूपिणीं ।
नासापुटात्परकलामथनिर्ग्गमयाम्यहं ॥ ७१॥

नमामियोनिमद्ध्यास्थां त्रिखण्डकुसुमांञ्जलिं ।
जगन्मातर्महादेवियन्त्रेत्वां स्थापयाम्यहं ॥ ७२॥

सुधाचैतन्यमूर्त्तीं ते कल्पयामिमनुं तव ।
अनेनदेविमन्त्रयन्त्रेत्वां स्थापयाम्यहं ॥ ७३॥

महापत्मवनान्तस्थे कारणानन्तविग्रहे ।
सर्वभूतहितेमातरेह्यपि परमेश्वरि ॥ ७४॥

देवेशी भकतसुलभे सर्वाभरणभूषिते ।
यावत्वंपूजयामीहतावत्त्वं सुस्थिराभव ॥ ७५॥

अनेन मन्त्रयुग्मेन त्वामत्रावाहयाम्यहं ।
कल्पयामिनमः पादमर्घ्यं ते कल्पयाम्यहं ॥ ७६॥

गन्धतैलाभ्यञ्जनञ्चमज्जशालाप्रवेशं ।
कल्पयामिनमस्तस्मै मणिपीठोप्रवेशनं ॥ ७७॥

दिव्यस्नानीयमीशानि गृहाणोद्वर्त्तनं शुभे ।
गृहाणोष्णादकस्नानंकल्पयाम्यभिषेचनं ॥ ७८॥

हेमकुंभायुतैः स्निग्द्धैः कल्पयाम्यभिषेचनं ।
कल्पयामिनमस्तुभ्यं धएऔतेन परिमार्ज्जनं ॥ ७९॥

बालभानु प्रतीकाशं दुकूलं परिधानकं ।
अरुणेनदुकुलेनोत्तरीयं कल्पयाम्यहं ॥ ८०॥

प्रवेशनं कल्पयामि सर्वांगानि विलेपनं ।
नमस्तेकल्पयाम्यत्र मणिपीठोपवेशनं ॥ ८१॥

अष्टगन्धैः कल्पयामि तवलेखनमंबिके ।
कालागरुमहाधूपंकल्पयामि नमश्शिवे ॥ ८२॥

मल्लिकामालातीजाति चंपकादि मनोरमैः ।
अर्च्चितांकुसुमैर्म्मालां कल्पयामि  नमश्शिवे ॥ ८३॥

प्रवेशनं कल्पयामि नमो भूषणमण्डपे ।
उपवेश्यंरत्नपीठे तत्रते कल्पयाम्यहं ॥ ८४॥

नवमाणिक्यमकुटं तत्रते कल्पयाम्यहं ।
शरच्चन्द्रनिभंयुक्तं तच्चन्द्रशकलं तव ॥ ८५॥

तत सीमन्तसिन्दूरं कस्तूरीतिलकं तव ।
कालाज्ञनंकल्पयामि पालीयुगलमुत्तमं ॥ ८६॥

मणिकुण्डलयुग्मञ्च नासाभरणमीश्वरी! ।
ताटङ्कयुगलंदेवि ललिते धारयाम्यहं ॥ ८७॥

अथाद्यां भूषणं कण्ठे महाचिन्ताकमुत्तमं ।
पदकंते कल्पयामि महापदकमुत्तमं ॥ ८८॥

मुक्तावलीं कल्पयामि चैकावलि समन्वितां ।
छन्नवीरञ्चकेयूरयुगलानां चतुष्टयं ॥ ८९॥

वलयावलिमालानीं चोर्मिकावलिमीश्वरि ।
काञ्चीदामकटीसूत्रंसौभग्याभरणं च ते ॥ ९०॥

त्रिपुरे पादकटकं कल्पये रत्ननूपुरं ।
पादांगुलीयकंतुभ्यं पाशमेकं करेतव ॥ ९१॥

अन्ये करेङ्कुशं देवि पूण्ड्रेक्षुधनुषं तव ।
अपरेपुष्पबाणञ्च श्रीमन्माणिक्यपादुके ॥ ९२॥

तदावरण देवेशि महामञ्चादिरोहणं ।
कामेश्वराङ्कपर्यङ्कमुपवेशनमुत्तमं ॥ ९३॥

सुधया पूर्ण्णचषकं ततस्तत् पानमुत्तमं ।
कर्प्पूरवीटिकांतुभ्यं कल्पयामि नमः शिवे ॥ ९४॥

आनन्दोल्लासविलसद्धंसं ते कल्पयाम्यहं ।
मंगलारात्रिकंवन्दे छत्रं ते कल्पयाम्यहं ॥ ९५॥

चामरं यूगलं देविदर्प्पणं कल्पयाम्यहं ।
तालव्रिन्तंकल्पयामिगन्धपुष्पाक्षतैरपि ॥ ९६॥

धूपं दीपश्चनैवेद्यं कल्पयामि शिवप्रिये ।
अथाहंबैन्दवे चक्रे सर्वानन्दमयात्मके ॥ ९७॥

रत्नसिंहासने रम्ये समासीनां शिवप्रियां ।
उद्यद्भानुसहस्राभांजपापुष्पसमप्रभां ॥ ९८॥

नवरत्नप्रभायुक्तमकुटेन विराजितां ।
चन्द्ररेखासमोपेतांकस्तूरितिलकाङ्कितां ॥ ९९॥

कामकोदण्डसौन्दर्यनिर्ज्जितभ्रऊलतायुतां ।
अञ्जनाञ्चितनेत्रान्तुपत्मपत्रनिभेषणां ॥ १००॥

मणिकुण्डलसम्युक्त कर्ण्णद्वयविराजितां ।
तांबूलपूरितमुखींसुस्मितास्यविराजितां ॥ १०१॥

आद्यभूषणसम्युक्तां हेमचिन्ताकसंयुतां ।
पदकेनसमोपेतां महापदकसंयुतां ॥ १०२॥

मुक्ताफलसमोपेतामेकावलिसमन्वितां ।
कौसुभांगदसंयुक्तचतुर्Bआहुसमन्वितां ॥ १०३॥

अष्टगन्धसमोपेतां श्रीचन्दनविराजितां ।
हेमकुंभोपमप्रख्यस्तनद्वन्दविराजितां ॥ १०४॥

रक्तवस्त्रपरीधानां रक्तकञ्चुकसंयुतां ।
सूक्ष्मरोमावलियुक्ततनुमद्ध्यविराजिताम् ॥ १०५॥

मुक्तामाणिक्यखचित काञ्चीयुतनितंबनीं ।
सदाशिवाङकस्थबृहन्महाजघनमण्डलाम् ॥ १०६॥

कदलिस्तंभसंराजदूरुद्वयविराजितां ।
कपालीकान्तिसंकाशजंघायुगलशोभिताम् ॥ १०७॥

ग्रूढगुल्फद्वेयोपेतां रक्तपादसमन्वितां ।
ब्रह्मविष्णुमहेशादिकिरीटस्फूर्ज्जितांघ्रिकाम् ॥ १०८॥

कान्त्या विराजितपदां भक्तत्राण परायणां ।
इक्षुकार्मुकपुष्पेषुपाशाङ्कुशधरांशुभां ॥ १०९॥

संवित् स्वरूपिणीं वन्दे ध्यायामि परमेश्वरीं ।
प्रदर्शयाम्यथशिवेदशामुद्राः फलप्रदाः ॥ ११०॥

त्वां तर्प्पयामि  त्रिपुरे त्रिधना पार्व्वति ।
अग्नएऔमहेशदिग्भागे नैरृत्र्यां मारुते तथा ॥ १११॥

इन्द्राशावारुणी भागे षडंगान्यर्च्चये क्रमात् ।
आद्यांकामेश्वरीं वन्दे नमामि भगमालिनीं ॥ ११२॥

नित्यक्लिन्नां नमस्यामि भेरुण्डां प्रणमाम्यहं ।
वह्निवासांनमस्यामि महाविद्येश्वरीं भजे ॥ ११३॥

शिवदूतिं नमस्यामि त्वरितां कुल सुन्दरीं ।
नित्यांनीलपताकाञ्च विजयां सर्वमंगलां ॥ ११४॥

ज्वालामालाञ्च चित्राञ्च महानित्यां च संस्तुवे ।
प्रकाशानन्दनाथाख्यांपराशक्तिनमाम्यहं ॥ ११५॥

शुक्लदेवीं नमस्यामि प्रणमामि कुलेश्वरीं ।
परशिवानन्दनाथाख्यांपराशक्ति नमाम्यहं ॥ ११६॥

कौलेश्वरानन्दनाथं नौमि कामेश्वरीं  सदा ।
भोगानन्दंनमस्यामि सिद्धौघञ्च वरानने ॥ ११७॥

क्लिन्नानन्दं नमस्यामि समयानन्दमेवच ।
सहजानन्दनाथञ्चप्रणमामि मुर्म्मुहु ॥ ११८॥

मानवौघं नमस्यामि गगनानन्दगप्यहं ।
विश्वानन्दंनमस्यामि विमलानन्दमेवच ॥ ११९॥

मदनानन्दनाथञ्च भुवनानन्दरूपिणीं ।
लीलानन्दंनमस्यामि स्वात्मानन्दं महेश्वरि ॥ १२०॥

प्रणमामिप्रियानन्दं सर्वकामफलप्रदं ।
परमेष्टिगुरुंवन्दे परमंगुरुमाश्रये ॥ १२१॥

श्रीगुरुं प्रणमस्यामि मूर्द्ध्नि ब्रह्मबिलेश्वरीं ।
श्रीमदानन्दनाथाख्यश्रिगुरोपादुकां तथा ॥ १२२॥

अथ प्राथमिके देवि चतुरश्रे कुलेश्वरि ।
अणिमांलखिमां वन्दे महिमां प्रणमाम्यहं ॥ १२३॥

ईशित्वसिद्धिं कलये वशित्वं प्रणमाम्यहं ।
प्राकाम्यसिद्धिंभुक्तिञ्च इच्छाप्राप्र्तिमहं भजे ॥ १२४॥

सर्वकामप्रदां सर्वकामसिद्धिमहं भजे ।
मद्ध्यमेचतुरश्रेहं ब्राह्मीं माहेश्वरीं भजे ॥ १२५॥

कौमारीं वैष्णवीं वन्दे वाराहीं प्रणमाम्यहं ।
माहेन्द्रीमपिचामुण्डांमहालक्ष्मीमहं भजे ॥ १२६॥

तृतीये चतुरश्रे तु सर्वसंक्षोभिणीं भजे ।
सर्वविद्रापिणींमुद्रां सर्वाकर्षिणिकां भजे ॥ १२७॥

मुद्रां वशङ्करीं वन्दे सर्वोन्मादिनिकां भजे ।
भजेमहाङ्कुशां मुद्रां खेचरीं प्रणमाम्यहं ॥ १२८॥

बीजामुद्रां योनिमुद्रां भजे सर्वत्रिखण्डिनीं ।
त्रैलोक्यमोहनंचक्रं नमामि ललिते तव ॥ १२९॥

नमामि योगिनीं तत्र प्रखटाख्यामभीष्टदां ।
सुधार्ण्णवासनंवन्दे तत्र ते परमेश्वरि ॥ १३०॥

चक्रेश्वरि महं वन्दे त्रिपुरां प्रणमाम्यहं ।
सर्वसंक्षोभिणींमुद्रां ततोहं कलये शिवे ॥ १३१॥

अथाहं षोडशदले कामाकर्षिणिकां भजे ।
बुद्ध्याकर्षिणिकांवन्देहङ्काराकर्षिणिकां भजे ॥ १३२॥

शब्दाकर्षिणिकां वन्दे स्पर्शाकर्षिणिकां भजे ।
रूपाकर्षिणिकांवन्दे रसाकर्षिणिकां भजे ॥ १३३॥

गन्धाकर्षिणिकां वन्दे चित्ताकर्षिणिकां भजे ।
धैर्याकर्षिणिकांवन्दे स्मृत्याकर्षिणिकां भजे ॥ १३४॥

नामाकर्षिणिकां वन्दे बीजाकर्षिणिकां भजे ।
आत्माकर्षिणिकांवन्दे अमृताकर्षिणिकां भजे ॥ १३५॥

शरीराकर्षिणिकां वन्दे नित्यां श्रीपरमेश्वरि ।
सर्वाशापूरकंवन्दे कल्पयेहं तवेश्वरि ॥ १३६॥

गुप्ताख्यां योगिनीं वन्दे मातरं गुप्तपूज्यतां ।
पोतांबुजासनंतत्र नमामि ललिते तव ॥ १३७॥

त्रिपुरेशीं नमस्यामि भजामिष्टार्त्थसिद्धिदां ।
सर्वविद्राविणिमुद्रांतत्राहं ते विचन्तये ॥ १३८॥

सिवे तवाष्टपत्रेहमनंगकुसुमां भजे ।
अनंगमेखलांवन्दे अनंगमदनां भजे ॥ १३९॥

नमोहं प्रणस्यामि अनंगमदनातुरां ।
अनंगरेखांकलये भजेनंगां च वेगिनीं ॥ १४०॥

अनंगाकुशां वन्देह मनंगमालिनीं भजे ।
तत्राहंप्रणस्यामि देव्या आसनमुत्तमं ॥ १४१॥

नमामि जगतीशानीं तत्र त्रिपुरसुन्दरीं ।
सर्वाकर्षिणिकांमुद्रां तत्राह कलपयामिते ॥ १४२॥

भुवनाश्रये तव शिवे सर्वसंक्षोभिणीं भजे ।
सर्वविद्राविणींवन्दे सर्वकर्षिणिकां भजे ॥ १४३॥

सर्वह्लादिनीं वन्दे सर्वसम्मोहिनीं भजे ।
सकलस्तंभिनीं वन्दे कलये सर्वजृंभिणीं ॥ १४४॥

वशङ्करीं नमस्यामि सर्वरज्ञिनिकां भजे ।
सकलोन्मदिनींवन्दे भजे सर्वार्त्थसाधके ॥ १४५॥

सम्पत्तिपुरिकां वन्दे सर्वमन्त्रमयीं भजे ।
भजाम्येवततश्शक्तिं सर्वद्वन्द्वक्ष्यङ्करीं ॥ १४६॥

तत्राहं कलये चक्रं सर्वसौभाग्यदायकं ।
नमामिजगतां धात्रीं सम्प्रदायाख्ययोगिनिं ॥ १४७॥

नमामि परमेशानीं महात्रिपुरवासिनिं ।
कलयेहंतव शिवे मुद्रां सर्वशङ्करीं ॥ १४८॥

बहिर्द्दशारे ते देवि सर्वसिद्धिप्रदां भजे ।
सर्वसम्पत्प्रदां वन्दे सर्वप्रियंकरीं भजे ॥ १४९॥

नमाम्यहं ततो देवीं सर्वमंगलकारिणीं ।
सर्वकामप्रदांवन्दे सर्वदुःखविमोचिनिं ॥ १५०॥

सर्वमृत्युप्रशमनीं सर्वविघ्ननिवारिणीं ।
सर्वांगसुन्दरींवन्दे सर्वसौभाग्यदायिनीं ॥ १५१॥

सर्वार्त्थसाधकं चक्रं तत्राहं ने विचिन्तये ।
तत्राहंते नमस्यामि कुलोत्तीर्णाख्य योगिनीं ॥ १५२॥

सर्वमन्त्रसनं वन्दे त्रिपुराश्रियमाश्रये ।
कलयामिततो मुद्रां सर्वोन्मादन कारिणीं ॥ १५३॥

अन्तर्द्दशारे ते देवि सर्वज्ञां प्रणमाम्यहं ।
सर्वशक्तिंनमस्यामि सर्वैश्वर्यप्रदां भजे ॥ १५४॥

सर्वज्ञानमयीं वन्दे सर्वव्याधिविनाशिनीं ।
सर्वाधारस्वरूपाञ्चसर्वपापहरांभजे ॥ १५५॥

सर्वानन्दमयिं वन्दे सर्वरक्षास्वरूपिणीं ।
प्रणमामिमहादेवीं सर्वेप्सित फलप्रदां ॥ १५६॥

सर्वरक्षाकरं चक्रं सुन्दरीं कलये सदा ।
निगर्भयोनींवन्दे तत्राहं प्रणमाम्यहं ॥ १५७॥

साद्ध्यसिद्धासनं वन्दे भजे त्रिपुरमालिनीं ।
कलयामिततो देवीं मुद्रां सर्वमहाङ्कुशां ॥ १५८॥

अष्टारे वशिनीं वन्दे महा कामेश्वरीं भजे ।
मोदिनींविमलांवन्दे अरुणाजयिनीं भजे ॥ १५९॥

सर्वेश्वरीं नमस्यामि कौलिनीं प्रणमाम्यहं ।
सर्वरोगहरंचक्रं तत्राहं कलये सदा ॥ १६०॥

नमामि त्रिपुरा सिद्धिं भजे मुद्रां च खेचरीं ।
महात्रिकोणवत्बाहुचतुरश्रे कुलेश्वरि ॥ १६१॥

नमामि जृंभणाबाणं सर्वसंमोहिनीं भजे ।
पाशंचापं भजे नित्यं भजे स्तंभनमङ्कुशं ॥ १६२॥

त्रिकोणेहं जगद्धात्रीं महाकामेश्वरीं भजे ।
महावज्रेश्वरींवन्दे महाश्रीभगमालिनीं ॥ १६३॥

महाश्रीसुन्दरीं वन्दे सर्वकामफलप्रदां ।
सर्वसिद्धिप्रदंचक्रं तवदेवि नमाम्यहं ॥ १६४॥

नमाम्यतिरहस्याख्यां योगिनीं तवकामदां ।
त्रिपुरांबांनमस्यामि बीजामुद्रामहांभजे ॥ १६५॥

मूलमन्त्रेण ललिते तल्बिन्दौ पूजयाम्यहं ।
सर्वानन्दमयंचक्रं तवदेवि भजाम्यहं ॥ १६६॥

परां पररहस्याख्यां योगिनीं तत्रकामदां ।
महाचक्रेश्वरींवन्दे योनिमुद्रामहं भजे ॥ १६७॥

धूपदीपादिकं सर्वमर्प्पितं कल्पयाम्यहं ।
त्वल्प्रीतयेमहामुद्रां दर्शयामि ततश्शिवे ॥ १६८॥

शाल्यन्नं मधुसम्युक्तं पायसापूप सम्युक्तं ।
घृतसूपसमायुक्तंदधिक्षीरसमन्वितं ॥ १६९॥

सर्वभक्ष्यसमायुक्तं बहुशाकसमन्वितं ।
निक्षिप्यकाञ्चने पात्रे नैवेद्यं कल्पयामि ते ॥ १७०॥

सङ्कल्पबिन्दुना चक्रं कुचौ बिन्दुद्वयेन च ।
योनिश्चसपरार्द्धेन कृत्वा श्रीललिते तव ॥ १७१॥

एतत् कामकला रूपं भक्तानां सर्वकामदं ।
सर्वसौभाग्यदंवन्दे तत्र त्रिपुरसुन्दरीं ॥ १७२॥

वामभागे महेशानि वृत्तं च चतुश्रकं ।
कृत्वागन्धाक्षताद्यैश्चाप्यर्च्चयामि महेश्वरीं ॥ १७३॥

वाग्दवाद्यं नमस्यामि तत्र व्यापकमण्डलं ।
जलयुक्तेनपाणौ च शुद्धमुद्रा समन्वितं ॥ १७४॥

तत्र मन्त्रेण दास्यामि देवि ते बलिमुत्तमं ।
नमस्तेदेवदेवेशि नम स्त्रैलोक्यवन्दिते ॥ १७५॥

नमश्शिववराङ्कस्थे नमस्त्रीपुरसुन्दरि ।
प्रदक्षिणनमस्कारमनेनाहं करोमि ते ॥ १७६॥

तत सङ्कल्पमन्त्राणां समाजं परमेश्वरि ।
प्रजपामिमहाविद्यां त्वत् प्रीत्यर्त्थमहं शिवे ॥ १७७॥

तव विद्यां प्रजप्त्वाथ नौमि त्वां परमेश्वरि ।
महादेविमहेशानि महाशिवमये प्रिये ॥ १७८॥

महानित्ये महासिद्धे त्वामहं शरणं शिवे ।
जयत्वंत्रिपुरे देवि ललिते परमेश्वरि ॥ १७९॥

सदाशिव प्रियङ्करि पाहिमां करुणानिधे ।
जगन्मातर्ज्जगद्रूपेजगदीश्वरवल्लभे ॥ १८०॥

जगन्मयि जगत् स्तुत्ये गौरि त्वामहमाश्रये ।
अनाद्येसर्वलोकानामाद्ये भक्तेष्टदायिनि ॥ १८१॥

गिरिराजेन्द्रतनये नमस्तीपुरसुन्दरि ।
जयारीञ्जयदेवेशिब्रह्ममातर्महेश्वरि ॥ १८२॥

विष्णुमातरमाद्यन्ते हरमातस्सुरेश्वरि ।
ब्रह्म्यादिमातृसंस्तुत्ये सर्वाभरण सम्युक्ते ॥ १८३॥

ज्योतिर्मयि महारूपे पाहिमां त्रिपुरे सदा ।
लक्ष्मीवाण्यादिसं पूज्ये ब्रह्मविष्णुशिवप्रिय ॥ १८४॥

भजामि तव पादाब्जं देवि त्रिपुरसुन्दरि ।
त्वल्प्रीत्यर्त्थंयतः काञ्चीच्छक्तिं वैपूजयाम्यहं ॥ १८५॥

ततश्च केतनां शक्तिं तर्पयामि महेश्वरि ।
तथापित्वां भजंस्तोषं चिदग्नौ च ददाम्यहं ॥ १८६॥

त्वल्प्रीत्यर्त्थयं महादेवि ममाभीष्टार्त्थ सिद्धये ।
बद्ध्वात्वां खैचरीमुद्रां क्षमस्वोद्वासयाम्यहं ॥ १८७॥

तिष्तमे हृदयेनित्यं त्रिपुरे परमेश्वरि ।
जगदंमहाराज्ञि महाशक्ति शिवप्रिये ॥ १८८॥

हृच्चक्रे तिष्तमे नित्यं महात्रिपुरसुन्दरि ।
एतत्त्रिपुरसुन्दर्या हृदयं सर्वकामदं ॥ १८९॥

महारहस्यं सततं दुर्ल्लभं दैवतैरपि ।
साक्षात्सदाशिवेनोक्तं गुह्यात् गुह्यमनुत्तमं ॥ १९०॥

यः पतेत् श्रद्धया नित्यं शृणुयाद्वा समाहितः ।
नित्यपूजाफलंदेव्यास्सलभेन्नात्र संशयः ॥ १९१॥

पापैः समुच्यते सद्यः कायवाक्क् सित्तसंभवैः ।
पूर्वजन्मसमुत् भ्रदतैर्ज्ञानाज्ञकृतैरपि ॥ १९२॥

सर्वक्रतुषुयत् पुण्यं सर्वतीर्त्थेषु यर्फलं ।
तत्पुण्यं लभते नित्यं मानवो नात्र संशयः ॥ १९३॥

अचलां लभते लक्ष्मीं त्रैलोक्येनाति दुर्लभां ।
साक्षाद्विष्णुर्महालक्ष्याशीघ्रमेव भविष्यति ॥ १९४॥

अष्टैश्वर्य मवाप्नोति स शीघ्रं मानवोत्तमः ।
घण्डिकापादुकासिद्ध्यादिष्टकंशीघ्रमश्नुते ॥ १९५॥

श्रीमत्त्रिपुरांबिकायै नमः ।
॥ श्रीललिताहृदयस्तोत्रं सम्पूर्णं ॥

Other Goddess Lalitha Stotra and Mantra

Lalitha sahasranama stotra

Shri Lalitha sahasranama stotra from Narad purana

Lalitha Stava Ratnam in Sanskrit

Shri Lalitha Sahasranamavali

Goddess Lalitha Pancharatnam in Telugu & English

Lalitha sahasranamam Stotra Lyrics English

Lalitha stava raja stotram

Lalitha Tripura Sundari Aparadha Kshamapana Stotram

Lalitha Tripura Sundari Hrudaya Stotram

Shri Lalitha Trishati Stotram

Lalitha Trishati Namavali in Sanskrit