Devi Stuti by God Vishnu from Srimad Devi Bhagavata Mahapurana

Devi Stuti by Lord Vishnu

Devi Stuti by God Vishnu from Srimad Devi Bhagavata Mahapurana. This stuti is from Srimad Devi Bhagavatam provided by Lord vishnu to make devi happy.

श्रीभगवानुवाच
नमो देव्यै प्रकृत्यै च विधात्र्यै सततं नमः ।
कल्याण्यै कामदायै च वृद्ध्यै सिद्ध्यै नमो नमः ॥१॥

सच्चिदानन्दरुपिण्यै संसारारणये नमः ।
पञ्चकृत्यविधात्र्यै ते भुवनेश्यै नमो नमः ॥२॥

सर्वाधिष्ठानरुपायै कूटस्थायै नमो नमः ।
अर्धमात्रार्थ भूतायै हृल्लेखायै नमो नमः ॥३॥

ज्ञातं मयाऽखिलमिदं त्वयि सन्निविष्टम् त्वत्तोऽस्य सम्भव-लयावपि मातरद्य ।
शक्तिश्च तेऽस्य करणे वितत-प्रभावा ज्ञाताऽधुना सकल लोकमयोति नूनम् ॥४॥

विस्तार्य सर्वमखिलं सदसद्-विकारम् सन्दर्शयस्यविकलं पुरुषाय काले ।
तत्त्वैश्च षोडशभिरेव च सप्तभिश्च भासीन्द्र-जालमिव नः किल रञ्जनाय ॥५॥

न त्वामृते किमपि वस्तु-गतं विभाति व्याप्येव सर्वमखिलं त्वमवस्थिताऽसि ।
शक्तिं बिना व्यवहृतौ पुरुषोऽप्यशक्तो बम्भण्यते जननि बुद्धि-मता जनेन ॥६॥

प्रीणाऽसि विश्वमखिलं सततं प्रभावैः स्वैस्तेजसा च सकलं प्रकटी करोषि ।
अत्स्येव देवि तरसा किल कल्प-काले को वेद देवि चरितं तव वैभवस्य ॥७॥

त्राता वयं जननि ते मधुकैटभाभ्यां लोकाश्च ते सुवितता: खलु दर्शिता वै ।
नीता: सुखस्य भवने परमां च कोटिं यद्दर्शनं तव भवानि महाप्रभावम् ॥८॥

नाहं भवो न च विरिञ्चि विवेद मात: कोsन्यो हि वेत्ति चतितं तव दर्विभाव्यम् ।
कानीह सन्ति भुवनानि महाप्रभावे ह्यस्मिन्भवानि रचिते रचनाकलापे ॥९॥

अस्माभिरत्र भुवने हरिरन्य एव दृष्ट: शिव: कमलज: प्रथितप्रभाव:।
अन्येषु देवि भुवनेषु न सन्ति किं ते किं विद्म देवि विततं तव सुप्रभावम् ॥१०॥

याचेम्ब ! तेऽघ्रिं-कमलं प्रणिपत्यकामम् चित्ते सदा वसतु रुपमिदं तवैतत् ।
नामापि वक्त्र-कुहरे सततं तवैव सन्दर्शनं तव पदाम्बुजयोः सदैव ॥११॥

भृत्योsयमस्ति सततं मयि भावनीयं त्वां स्वामिनीति मनसा ननु चिन्तयामि।
एषाssवयोरविरता किल देवि भूयाद्वयाप्ति: सदैव जननीसुतयोरिवार्ये ॥१२॥

त्वं वेत्सि सर्वमखिलं भुवनप्रपञ्चं सर्वज्ञता परिसमाप्तिनितान्तभूमि:।
किं पामरेण जगदम्ब निवेदनीयं यद्युक्तमाचर भवानि तवेङ्गितं स्यात् ॥१३॥

ब्रह्मा सृजत्यवति विष्णुरुमापतिश्च संहारकारक इयं तु जने प्रसिद्धि:।
किं सत्यमेतदपि देवि तवेच्छया वै कर्तूं क्षमा वयमजे तव शक्तियुक्ता:॥१४॥

धात्री धराधरसुते न जगद् बिभर्ति आधारशक्तिरखिलं तव वै बिभर्ति।
सूर्योsपि भाति वरदे प्रभाया युतस्ते त्वं सर्वमेतदखिलं विरजा विभासि॥१५॥

ब्रह्माsहमीश्वरवर: किल ते प्रभावात्सर्वे वयं जनियुता न यदा तु नित्या:।
कैsन्ये सुरा: शतमखप्रमुखाश्च नित्या नित्या त्वमेव जननी प्रकृति: पुराणा॥१६॥

त्वं चेद्भवानि दयसे पुरुषं पुराणं जानेsहमद्य तव सन्निधिग: सदैव।
नोचेदहं विभुरनादिरनीह ईशो विश्वात्मधीरिति तम:प्रकृति: सदैव॥१७॥

विद्या त्वमेव ननु बुद्धिमतां नराणाम् शक्तिस्त्वमेव किल शक्ति-मतां सदैव।
त्वं कीर्ति-कान्ति-कमलामल-तुष्टि-रुपा मुक्तिप्रदा विरतिरेव मनुष्यलोके॥१८॥

गायत्र्यसि प्रथम वेदकला त्वमेव स्वाहा स्वधा भगवती सगुणार्धमात्रा।
आम्नाय एव विहितो निगमो भवत्या सञ्जीवनाय सततं सुरपूर्वजानाम्॥१९॥

मोक्षार्थमेव रचयस्यखिलं प्रपञ्चम् तेषां गता: खलु यतो ननु जीवभावम्।
अंशा अनादि निधनस्य किलानघस्य पूर्णार्णवस्य वितता हि यथा तरंगा॥२०॥

जीवो यदा तु परिवेत्ति तवैव कृत्यम् त्वं संहरस्यखिलमेतदिति प्रसिद्धम्।
नाट्यं नटेन रचितं वितथेऽन्तरंगे कार्ये कृते विरमसे प्रथितप्रभावा॥२१॥

त्राता त्वमेव मम मोहमयाद् भवाब्धेः त्वामम्बिके सततमेमि महार्तिहे च।
रागादिभिर्विरचिते वितथे किलान्ते मामेव पाहि बहुदुःखकरे च काले॥२२॥

नमो देवि महाविद्ये नमामि चरणौ तव ।
सदा ज्ञानप्रकाशं मे देहि सर्वार्थदे शिवे ॥२३॥
॥ इति श्रीमद् देवीभागवते महापुराणे तृतीयस्कन्धे विष्णुना कृतं देवीस्तोत्रं सम्पूर्णम्॥

Devi Stuti by God Vishnu from Srimad Devi Bhagavata Mahapurana